Sunday, August 21, 2011

Īśvara Kṛṣṇa's Sāṁkhyakārikā

दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टेसाऽपार्था चेन्नैकान्तत्यन्ततोऽभावात् ।।1।।

दुःखत्रय अभिघातात्, तत् अपघातके हेतौ, जिज्ञासा । दृष्टे, सा (=जिज्ञासा) न अपार्था चेत्, एकान्त अत्यन्ततः अभावात् । దుఃఖత్రయ అభిఘాతం వలన, ఆ అపఘాతహేతువునందు జిజ్ఞాస. దృష్టసాధనములుండుటయందు, అది (జిజ్ఞాస) వ్యర్థం కాజాలదు, ఏకాంత-అత్యంతముల అభావముచేత.

దృష్టసాధనములు --> ప్రత్యక్షసిద్ధమైన అపఘాత హేతు సాధనములు = ఓషధ, స్త్రీసాంగత్య, నీతిశాస్త్ర కుశలత, నిరపాయస్థానం, మణి మంత్ర జ్ఞానం...మొ॥
ఏకాంత --> నిశ్చయత్వం, అత్యంత --> నిశ్శేషత్వం

दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात् ।।2।।

अनुश्रविकः  दृष्टवत् हि, सः अविशुद्धि-क्षय-अतिशय युक्तः । तत् विपरीतः श्रेयान्, व्यक्त-अव्यक्त-ज्ञ-विज्ञानात् । అనుశ్రవికం దృష్టసాధనములవలెనే, ఏలన, అది అశుద్ధి-క్షయ-అతిశయ యుక్తము. తద్భిన్నము శ్రేయోమార్గం, వ్యక్త-అవ్యక్త-జ్ఞాన వివేకమువలన.

అనుశ్రవికం --> శ్రుతి నిర్దేశిత కర్మకాండలు;
వ్యక్త --> స్థూలప్రకృతి (కార్య); అవ్యక్త --> సూక్ష్మప్రకృతి(కారణ); జ్ఞ --> పురుషజ్ఞానం.

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ।।3।।

मूलप्रकृतिः अविकृतिः । महत्-आद्याः प्रकृति-विकृतयः सप्त । षोडशकः तु विकारः । पुरुषः न प्रकृतिः न विकृतिः । మూలప్రకృతి అవికృతము. మహత్త్వాదులు ఏడు, ప్రకృతములును, వికృతములునూ. పదునాఱు తత్త్వములు వికారములు మాత్రమే. పురుషుడు ప్రకృతి కాడు, వికృతి కాడు.

ప్రకృతి --> కార్య; వికృతి --> కారణ.
మహత్త్వాదులు ఏడు --> మహత్, అహంకార, పంచతన్మాత్రలు.
పదునాఱు తత్త్వములు --> మనస్సు, దశేంద్రియాలు, పంచభూతాలు.

 दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् ।
त्रिविधंप्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि ।।4।।

दृष्टम् अनुमानम् आप्तवचनं च सर्वप्रमाण-सिद्धत्वात् त्रिविधं प्रमाणम् इष्टम् । प्रमाणात् हि प्रमेयसिद्धिः । దృష్టం, అనుమానం, ఆప్తవచనం అని మూడు ప్రమాణములు, సర్వప్రమాణసిద్ధత్వమువలన. ప్రమాణము వలననే ప్రమేయసిద్ధి.

प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुतिराप्तवचनं तु ।।5।।

दृष्टं प्रतिविषय-अध्यवसायः । त्रिविधम् अनुमानम् आख्यातम्, तत् लिङ्ग-लिङ्गि-पूर्वकम् । आप्तश्रुतिः आप्तवचनं तु । దృష్టం ప్రతివిషయపు అధ్యవసాయం. అనుమానం త్రివిధములుగా చెప్పబడెను. అది లింగ-లింగి పూర్వకం. ఆప్తశ్రుతియే ఆప్తవచనం.

ప్రతివిషయ-అధ్యవసాయం --> విషయములందు ఇంద్రియములు కూడుటచే కలుగు జ్ఞానం.
అనుమానం త్రివిధములు  --> పూర్వవత్, శేషవత్, సామాన్యతోదృష్టం.
వీత అనుమానం --> అన్వయవ్యాప్తి (పూర్వవత్, సామాన్యతోదృష్టం); అవీత అనుమానం --> వ్యతిరేకవ్యాప్తి (శేషవత్).
లింగ --> వ్యాప్యం; లింగి --> వ్యాపకం. అనుమాన ప్రమాణం లింగ-లింగి పూర్వకం.

सामान्यतस्तु दृष्टात् अतीन्द्रियाणाम्प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धिं परोक्षमाप्तागमात् सिद्धम् ।।6।।


अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात्।
सौक्ष्म्याद्यवधानात् अभिभवात्, समानाभिहाराच्च।।7।।

सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्, कार्य्यतस्तदुपलब्धेः।
महदादि तच्च कार्य्यं प्रकृतिसरूपं विरूपं च।।8।।

असदकरणादुपादानग्रहणात् सर्वसंभवाभावात्।
शक्तस्य शक्यकरणात्, कारणभावाच्चसत्कार्य्यम्।।9।।

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम्।।10।।

त्रुगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि।
व्यक्तं, तथा, प्रधानम्, तद्विपरीतस्तथा च पुमान्।।11।।

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः।।12।।

सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः।
गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः।।13।।

अविवेक्यादेः सिद्धिस्त्रैगुण्यात्तद्विपर्याभावात्।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्।।14।।

भेदानां परिमाणात् समन्वयात् कार्यतः प्रवृत्तेश्च।
कारणकार्यविभागादविभागाद्वैश्वरूपस्य।।15।।

कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च।
परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात्।।16।।

संघातपरार्थत्वात् त्रिगुणादिविपर्यायादधिष्ठानात्।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च।।17।।

जननमरणकरणानां प्रतिनियमाद्युगपत्प्रवृत्तेश्च।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्याच्चैव।।18।।

तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य।
कैवल्यम्माध्यस्थं दृष्टृत्वमकर्तृभावश्च।।19।।

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः||20||

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धदुभयोरपि संयोगस्तत्कृतः सर्गः।।21।

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि।।22।।

अध्यवसायो बुद्धि धर्मो ज्ञानं विराग एश्वर्यम्।
सात्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्।।23।।

अभिमानोऽहङ्कारः, तस्माद्विविधः प्रवर्तते सर्गः।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव।।24।।

सात्विकएकादशकः प्रवर्ततेवैकृतादहङ्कारात्।
भूतादेश्तन्मात्रः स तामसः, तैजसादुभयम्।।25।।

बुद्धीन्द्रियणि चक्षुः श्रोत्रघ्राणरसनत्वमाख्यानि।
वाक् पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः।।26।।

उभयात्मकमत्र मनः, सङ्कल्पमिन्द्रिय व साधर्म्यात्।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च।।27।।

शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्।।28।।

स्वालक्षण्यं वृत्तित्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्यावायवः पञ्च।।29।।

युगपच्चतुष्टयस्य तु वृत्तिः क्रमश्च तस्य निर्दिष्टा।
दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः।।30।।

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्।
पुरुषार्थ एव हेतुर्न केचित्कार्यते करणम्।।31।।

करणं त्रयोदशविधम्, तदाहरणधारणप्रकाशकरम्।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च।।32।।

अन्तःकरणं त्रिविधं करणं दशधा बाह्यं त्रयस्य विषयाख्याम्।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्।।33।।

बुद्धिन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि।।34।।

सान्तः करणा बुद्धिः सर्वं विषयमवगाहते यस्मात्।
तस्मात्रिविधं करणं द्वारि, द्वाराणि शेषाणि।।35।।

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति।।36।।

सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्।।37।।

तन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः।
एते स्मृता विशेषाः, शान्ता गोराश्च मूढाश्च।।38।।

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः।
सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते।।39।।

पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम्।
संसरति निरूपभोगं भावैरधिवासितं लिङ्गम्।।40।।

चित्रं यथाश्रयमृतेस्थाण्वादिभ्यो विना यथाच्छाया।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्।।41।।

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम्।।42।।

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृतिकाश्च धर्माद्याः।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः।।43।।

धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण।
ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः।।44।।

वैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात्।
एश्वर्यादविघातो विपर्ययात्तद्विपर्यासः।।45।।

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टि करणवैकल्यात्।
गुणवैषम्यविमर्दात्, तस्य च भेदास्तु पञ्चाशत्।।।46।।

पञ्चविपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्।
अष्टाविंशति भेदा तुष्टिर्नवधाऽष्टधा सिद्धिः।।47।।

भेदस्तमसोऽष्टविधो मोहस्य च, दशविधोमहामोहः।
तामिस्रोऽष्टदशधा, तथा भवत्यन्धतामिस्रः।।48।।

एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा।
सप्तदशबधा बुद्धेर्विपर्ययात्तुष्टि सिद्धीनाम्।।49।।

आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः।
बाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः।।50।।

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ, सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः।।51।।

न विना भावैलिङ्गं, न विना लिङ्गेन भावनिवृत्तिः।
लिङ्गाख्यो भावाख्यस्तस्मादुद्विविधः प्रवर्तते सर्गः।।52।।

अष्ट विकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति।
मानुषश्चैकविधः, समासतो भौतिकः सर्गः।।53।।

उर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्वः।
मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः।।54।।

तत्र जरामरणकृतं दुःखम्प्राप्नोति चेतनः पुरुषः।
लिङ्स्याविनिवृत्तेस्तस्माद्दुखं स्वभावेन।।55।।

इत्येषप्रकृतिकृतोमहदादि विशेषभूतपर्यन्तः।
प्रतिपुरुष विमोक्षार्थं स्वार्थ इव परार्थ आरम्भः।।56।।

वत्स विवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुष विमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य।।57।।

औत्सुक्य निवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः।
पुरुष विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम्।।58।।

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः।।59।।

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः।
गुणवत्यगुणस्यसतस्स्यार्थमपार्थकञ्चरति।।60।।

प्रकृतेः कुकुमारतरन्न किञ्चिदस्तीति मे मतिर्भवति।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य।।61।।

तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः।।62।।

रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः।
सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण।।63।।

एवन्तत्त्वभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्।।64।।

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वच्छः।।65।।

दृष्टा मयेत्युपेक्षक एको, दृष्टाऽहमित्युपरमत्यन्या।
सति संयोगेऽपि तयोः प्रयोजनन्नास्ति सर्गस्य।।66।।

सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणाप्राप्तौ।
तिष्ठति संस्कारवशात्, चक्रभ्रमिवद्धृतशरीरः।।67।।

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ।
एकान्तिकमात्यन्तिमुभयं कैवल्यमाप्नोति।।68।।

पुरुषार्थज्ञानमिदं गुह्यम्परमर्षिणा समाख्यातम्।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते तत्र भूतानाम्।।69।।

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पयाप्रददौ।
आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतन्तन्त्रम्।।70।।

शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः।
संक्षिप्तमार्यमतिना सम्ग्विज्ञाय सिद्धान्तम्।।71।।

सप्तत्यां किल येऽर्थास्तेऽयोः कृत्स्नस्य षष्टितन्त्रस्य।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि।।72।।

इति साङ्ख्यकारिका समाप्ता।।

No comments:

Post a Comment